Bhaswati class 12 solutions chapter 11 कार्याकार्यव्यवस्थितिः full solution

Bhaswati class 12 solutions chapter 11 कार्याकार्यव्यवस्थितिः full solution

Bhaswati Class 12th Sanskrit Bhaswati Chapter 3 मातुराञा गरीयसी full solution

Bhaswati, chapter 11. कार्याकार्यव्यवस्थितिः


1- अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत्तभाषया लिखत-

(क) -दैवी संपद्‌ कल्मै ता?

उत्तर -दैवी संपद् विमोक्षाय मता ।
(ख) -कामभोगेषु प्रसक्ताः कुत्र पतन्ति?

उत्तर -कामभोगेषु प्रसक्ताः नरके पतन्ति ।
(ग) -ईश्वरः नराधमान्‌ कासु योनिषु क्षिपति?

उत्तर -ईश्वरः नराधमान् आसुरीषु योनिषु क्षिपति ।
(घ) -त्रिविधं कस्य दारम्‌?

उत्तर -त्रिविधं नरकस्य द्वारम् ।


2- अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत्तभाषया लिखत-

(क) -जगतः क्षयाय के प्रभवन्ति?

उत्तर -जगतः क्षयाय अल्पबुद्धयः प्रभवन्ति।
(ख) -अज्ञानविमोहिताः जनाः किं विचारयन्ति?

उत्तर -अज्ञानविमोहिताः जनाः इदंविचारयन्ति यत्-“आढ्यः अभिजनवान् अस्मि, मया सदृशः अन्यः कः अस्ति” इति।
ग) -मनुष्यः कि त्यजेत्‌?

उत्तर -मनुष्यः कामक्रोधलोभत्रयं त्यजेत्।
(घ) -नरकेऽशुचौ के पतन्ति?

उत्तर -नरकेऽशुचौ कामभोगेषु प्रसक्ताः (जनाः) पतन्ति।


3-रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

(क) –भूतेषु दया एव दैवी सम्पद्‌।

उत्तर -केषु दया एव दैवी सम्पद् ?
(ख) -आसुरी सम्पद्‌ निबन्धाय मता।

उत्तर -आसुरी सम्पद् कस्मै मता ?
(ग) –आसुराः जनाः प्रवृत्तिं निवृत्तिं च न विदुः|

उत्तर -कीदृशाः जनाः प्रवृत्तिं निवृत्तिं च न विदुः ?


(घ) -मूढाः जन्मनि जन्यनि हरिमप्राप्यैय अधर्मा गतिं यान्ति।

उत्तर -के जन्मनि जन्मनि हरिमप्राप्यैव अधर्मां गतिं यान्ति ?

4- नरकस्य द्वारम्‌ पञ्चवविधम्‌।

उत्तर -नरकस्य द्वारम् पञ्चविधम्। → न

आसुरीवृत्तियुक्ताः जनाः दम्भेनाविधिपूर्वकं यजन्ते।

उत्तर -आसुरीवृत्तियुक्ताः जनाः दम्भेनाविधिपूर्वकं यजन्ते। → आम्
(ग) -नष्टात्मनः अल्पबुद्धयः जगतः हिताय प्रभवन्ति।

उत्तर -नष्टात्मनः अल्पबुद्धयः जगतः हिताय प्रभवन्ति। → न
(घ) -तेजः क्षमा धृतिः इत्यादीनि आसुरीसंपदः अगभूतानि। n→ न
दम्भः दर्पः अभिमानश्च दैवीसंपद: अंगभूतानि। → न
उत्तर -अज्ञानविमोहिताः जनाः कोऽन्योऽस्ति सदृशो मया इति चिन्तयन्ति। → आम्

5- क) असौ मया हतः शनुर्हनिष्ये चापरानपि।

ईश्वरोऽहमहं भोगौ सिद्धोऽहं बलवान्‌ सुखी

अन्वयः- मया———————शत्रुः हतः, अपरान्‌ ———————हनिष्ये अहम्

——————— अहं भोगी, अहं सिद्ध ——————— सुखी।

(ख) दैवी संपद्‌ विमोक्षाय निबन्धायासुरी मता।

मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव॥

अन्वयः– विमोक्षाय ……………………….. संपद्‌, आसुरी (च) निबन्धाय ………………………..। पाण्डव!

मा ……………………….. दैवीं संपदम् ………………………..असि।
उत्तर – दैवी संपद् विमोक्षाय निबन्धायासुरी मता।

मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव॥

अन्वयः- विमोक्षाय दैवी संपद्, आसुरी (च) निबन्धाय मता।पाण्डव!

मा शुचः दैवीं संपदम् अभिजातः असि।

6- (क) -इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्‌।

इदमस्तोदमपि मे भविष्यति पुनर्धनम्‌।।

श्रीकृष्णः कथयति यत्‌ मुढः अज्ञानविमोहितः जनः…………… भवति, किच्चद्‌

अल्यमपि प्राप्य ………………..भवति यत्‌ अद्य मया इदं प्राप्तम्‌ अतः अहम्‌ अन्यम्‌

अपि स्वमनोरथं शोौघ्रमेव …………………… यत्‌ किञ्चिद्‌ ममास्ति तत्तु मम॒ अस्त्येव

परमन्यत्‌ सर्व……………….. मम एव भविष्यति।

प्राप्तुं समर्थः. धनरमैशवर्य, आत्माभिमानी. अतिलोलुपः

उत्तर – इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्।

इदमस्तीवमपि मे भविष्यति पुनर्धनम्॥

भावार्थ : श्रीकृष्णः कथयति यत् मूढ़: अज्ञानविमोहित: जनः अतिलोलुपः भवति, किञ्चिद् अल्पमपि प्राप्य आत्माभिमानी भवति यत् अद्य मया इद प्राप्तम् अतः अहम् अन्यम् अपि स्वमनोरथं शीघ्रमेव प्राप्तुं समर्थः यत् किञ्चिद् ममास्ति तत्तु मम अस्त्येव परमन्यत् सर्वं धनमैश्वर्य च मम एव भविष्यति।

(ख) त्रिविधं नरकस्येदं द्वारं नाश्नमात्मनः।

कामः क्रोधस्तथा लोभस्तस्मादेतत््रयं त्यजेत्‌।

कर्तव्याकर्तव्य ……………….. भगवान्‌ श्रीकृष्णः अर्जुनस्य माध्यमेन अस्मान्‌ सर्वान

……………….. यत्‌ कामः, क्रोध……………….. एतानि त्रीणि नरकस्य

हाररूपाणि अतः यः जनः ……………….. नाशं नेच्छति अपितु स्वकीयं कल्याणमिच्छति

सः एतान्‌ हारान्‌ ………………..सर्वप्रयत्मैः च एतेषां त्रयाणां त्यागं कुर्यात्‌ येनैतानि

त्रीणि हारणि सदैव तस्य कृते……………….. तिष्ठेयुः सः च उनतिपधथि अग्रसरो भवेत्‌।

नोदूघारयेत्‌, लोभश्च, आत्मनः, वर्णयन्‌. पिहितानि, बोधयति |

उत्तर – त्रिविधं नरमस्येदं द्वारं नाश्नमात्मनः।

कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्।

भावार्थ :

कर्तव्याकर्तव्यं वर्णयन् भगवान् श्रीकृष्णः अर्जुनस्य माध्यमेन अस्मान् सर्वान् बोधयति यत् कामः, क्रोधः, लोभश्च एतानि त्रीणि नरकस्य द्वाररूपाणि अतः यः जनः आत्मनः नाशं नेच्छति अपितु स्वकीयं कल्याणमिच्छति सः एतान् द्वारान् नोद्घाटयेत् सर्वप्रयत्नैः च एतेषां त्रयाणां त्यागं कुर्यात् येनैतानि त्रीणि द्वारणि सदैव तस्य कृते पिहितानि सः च उन्नतिपथि अग्रसरो भवेत्।

7- समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत

यथा सत््वसंशुदिधः- सत्त्वानां संशुदिधः- षष्ठी तत्पुरुष

(क) अज्ञानम्‌-

(ख) उग्रकर्माणः-

(ग) मनोरथम्‌-

(घ) नराधमान्‌-

(ङ) त्रिविधम्‌-

क) अज्ञानम् → न ज्ञानम् इति-नञ् तत्पुरुष समासः।

(ख) उग्रकर्माणः → उग्रं कर्म करोति इति-कर्म तत्पुरुष समासः।

(ग) मनोरथम् → मनसः रथम् इति-षष्ठी तत्पुरुष समासः।

(घ) नराधमान् → नरेषु/ नराणाम् अधमाः तान् इति-षष्ठी-सप्तमी तत्पुरुष समासः।

(ङ) त्रिविधम् → त्रयाणां विधानां समाहारः इति-समाहार द्वंद्व समासः।

8- वाच्यपरिवर्तनं कृत्वा लिखत-

यथा- इदमद्य मया लब्धम्‌- इदमद्य अहं लब्धावान्‌/लब्धवती।

(क) अहं तान्‌ आसुरीषु योनिषु क्षिपामि-

(ख) असौ मया हतः-

(ग) अल्पबुद्धयः उग्रकर्माणः जगतः क्षयाय प्रभवन्ति।”

(घ) मया यक्ष्यते दीयते अ

(ङ) अनेकचित्तविभ्रान्ताः मोहजालसमावृताः नरकेऽशुचौ पतन्ति।

(क) अहं तान् आसुरीषु योनिषु क्षिपामि

मया ते आसुरीषु योनिषु क्षिप्यते।

(ख) असौ मया हतः-

इमम् अहं हतवान्।

(ग) अल्पबुद्धयः उग्रकर्माणः जगतः क्षयाय प्रभवन्ति।

अल्पबुद्धिभिः उग्रकर्मभिः जगतः क्षयाय प्रभूयते।

(घ) मया यक्ष्यते दीयते च

अहं यक्षामि ददामि च।

(ङ) अनेकचित्तविभ्रान्ताः मोहजालसमावृताः नरकेऽशुचौ पतन्ति।

अनेकचित्तविभ्रान्तैः मोहजालसमावृतैः नरकेऽशुचौ पत्यते।

9-प्रकृत-प्रत्यय-कव्भाग कृरूत-

यथा प्रवृत्तिः- प्र उपसर्गः. वृत्‌. क्तिन्‌ प्रत्ययः

(क) अवष्टभ्य – ……………………

(ख) मता – ……………………

(ग) अलोलुपत्वम्‌- ……………………

(घ) प्रहिषन्तः – ……………………

(ङ) विमोहिता: – ……………………


उत्तर –
(क) अवष्टभ्य → अव उपसर्गः, ष्टभ्, ल्यप् प्रत्ययः।

(ख) मता → मन्, क्त प्रत्ययः।

(ग) अलोलुपत्वम् → अ उपसर्ग: लोलुप, त्व प्रत्ययः।

(घ) प्रद्विषन्तः → प्र उपसर्गः, द्विष्, शतृ प्रत्ययः।

(ङ) विमोहिताः → वि उपसर्गः, मोह, इत प्रत्ययः।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top