gharelu udyog essay in hindi लघु उद्योग पर निबंध

लघु उद्योग पर निबंध

gharelu udyog essay in hindi लघु U पर निबंध

अस्मिन् संसारे सर्वे जनाः सुखं वाञ्छन्ति तेनैव च ते अहर्निशं परिश्रमं कुर्वन्ति । परिश्रमेण विना कस्यापि कार्यस्य सिद्धि र्न भवति । कार्यसिद्धिस्तु उद्योगेनैव भवति । यदि वयं विषयेऽस्मिन् सूक्ष्मरूपेणं चिन्तयेम, तर्हि देवाः अपि कार्यसिद्धिकरणे परिश्रमेण विना समर्थाः न भवन्ति । अनेनैव तेऽपि कार्यसिद्ध्यर्थं भूमौ अवतारं गृह्णन्ति, परिश्रमं विना दैवमपि पंगुः भवति । अनेनैव केनापि कविना कथितम्

यथा ह्येकेन चक्रेण न स्थस्य गतिर्भवेत् ।

तथा पुरुषकारेण विना दैवं न सिद्ध्यति । ।

संसारेऽस्मिन् द्विधा जनाः दृश्यन्ते । तत्र केचन तु परिश्रममेव सफलतायाः प्रमुखं कारणं मन्यन्ते । अन्ये तु भाग्यवादिनः ‘ये भाग्यं एव सर्वं’ इति मन्यन्ते, किन्तु भाग्यवादिनः जनाः नैराश्यमेव लभन्ते । अनेनैव कथ्यते—

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः,
दैवेन देयमिति का पुरुषाः वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या,
यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ॥

स्वयमेव विचारयन्तु भवन्तः । यदि कृषकः परिश्रमं न करोति, क्षेत्रं न कर्षति, बीजानि न वपति, काले शस्यानि जलेन न सिञ्चति, तर्हि किं सः सस्यानां स्वादुफलं आस्वादयति । कथं सः अन्येभ्यः स्वादिष्टान्नस्य उत्पत्ति कर्तुं शक्यते ।

एवमेव छात्राणां विषये, यदि कोऽपि छात्रः परीक्षायां परिश्रमं न करोति, तर्हि सः तस्यां साफल्यं न लभते । सफलतां प्राप्त्यर्थं तु तेन अहर्निशं उद्योगः कर्तव्यः तु एव ।
वस्तुत: भाग्यवादिनः मूर्खाः प्रमादिनः च भवन्ति, कुतः ते परिश्रमेण विना वै सुखं वाञ्छन्ति । परिश्रमाभावे किं ग्रासमेकमपि मुखे परिचलति ? भाग्यवादिनः तु कथयन्ति

“भाग्यं फलति सर्वत्र, न विद्या न च पौरुषम्” ।

किन्तु कथनं एतत् भ्रान्तिमूलकं असत्यं चास्ति । कुतः विचारयन्तु भवन्तः एव भाग्यं किं तदपि तु पूर्वजन्मकृतानां कर्मणां निर्मितिः एव अस्ति । अतः कर्मणः मुक्तिः कथं स्यात् ।

अनेनैव सम्पूर्ण विश्वसाहित्ये आलस्यं शरीरस्थो महान् रिपुः कथ्यते । आलस्येन कोऽपि जीवः विनश्यति, किन्तु परिश्रमः जनस्य कस्यापि प्राणिनः वा सर्वोत्कृष्टः बन्धुः वर्तते, कथितम् च

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः
नास्त्युद्यमसमो बन्धुः यं कृत्वा नावसीदति ॥

कोऽपि जनः जन्मतः महान् लघुः वा न भवति । संसारेऽस्मिन् जन्मनि सः यत् यत् कर्म करोति तथैव भवति । अथकपरिश्रमेणैव सः महापुरुषो भवति । भाग्यवादिनस्तु निरुद्योगिनः मन्दाः इव आचरन्ति ते सदैव यत्नेन विना सुखं वाञ्छन्ति, किन्तु साफल्यं न लभन्ते । ते प्रायः स्वपन् एव स्व कालं नयन्ति । अनेनैव ते कदापि स्व परिवारस्य च परिपोषणं कर्तुं समर्थाः न भवन्ति ।

उद्योगेनैव जनाः विद्वांसः, वैज्ञानिकाः धनिका: यशस्विनश्च भवन्ति । यः परिश्रमं करोति सः वै विजयतां लभते । ईश्वरोऽपि तस्य सहाय्यं करोति, येन स्वस्य सहायता क्रियते । अल्पीयसी पिपिलिका कठोर परिश्रमेणैव पर्वतमपि लंघयते, किन्तु न गच्छन् वैनतेयोऽपि एकं पदं न परिचलति । केनापि कविना सत्यमेव भणितम्

उद्योगेनैव सिद्ध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः । ।

अतः अस्माभिः सदैव उद्योगः कर्तव्यः ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top