Up board class 10 sanskrit chapter 1 कवि कुलगुरु: कालिदास:

Up board class 10 sanskrit chapter 1  कवि कुलगुरु: कालिदास:
Up board class 10 sanskrit chapter 1 कवि कुलगुरु: कालिदास:

Up board class 10 sanskrit chapter 1 कवि कुलगुरु: कालिदास:

महाकविकालिदासः संस्कृतकवीनां मुकुटमणिरस्ति केवलं भारतदेशस्य अपितु समग्रविश्वस्योत्कृष्टकविषु स एकतमोऽस्ति । तस्यानवद्याकीर्तिकौमुदी देशदेशान्तरेषु प्रसृतास्ति । भारतदेशे जन्म लब्ध्वा स्वकविकर्मणा देववाणीमलङ्कुर्वाणः स न केवलं भारतीयः कविः अपि तु विश्वकविरिति सर्वैराद्रियते । वाग्देवताभरणभूतस्य प्रथितयशसः कालिदासस्य जन्म कस्मिन् प्रदेशे, काले कुले चाभवत् किञ्चासीत् तज्जन्मवृत्तम् इति सर्वमधुनापि विवादकोटिं नातिक्रामति । इतरकवय इव कालिदासः आत्मज्ञापने स्वकृतिषु प्रायः घृतमौन एवास्ति । अन्येऽपि कवयस्तन्नामसंकीर्तनमात्रादेव स्वीयां वाचं धन्यां मत्वा मौनमवलम्बन्ते । तथापि अन्तर्बहिस्साक्ष्यमनुसृत्य समीक्षका: कविपरिचयं यावच्छक्यं प्रस्तुवन्ति ।

एका जनश्रुतिः अतिप्रसिद्धास्ति यया कविकालिदासः विक्रमादित्यस्य सभारत्नेषु मुख्यतमः इति ख्यापितः । परन्तु अत्रापरा विडम्बना समुत्पद्यते । विक्रमादित्यस्यापि स्थितिकालः सुतरां स्पष्टो नास्ति । केचिन्मन्यन्ते यत् विक्रमादित्योपाधिधारिणो द्वितीयचन्द्रगुप्तस्य समकालिक आसीत् कविरसौ । कालिदासस्य मालविकाग्निमित्रनाटकस्य नायकोऽग्निमित्रः शुङ्गवंशीय आसीत्। स एव विक्रमादित्योपाधिं धृतवान् यस्य सभारत्नेष्वेकः कालिदासः आसीत्। तस्य राज्ञः स्थितिकालः ख्रीष्टाब्दात्प्रागासीत्। स एव स्थितिकालः कवेरपि सिध्यति । कविकालिदासस्य जन्मस्थानविषयेऽपि नैकमत्यमस्ति । एतावान् कवेरस्य महिमास्ति यत् सर्वे एव तं स्व-स्वदेशीयं साधयितुं तत्परा भवन्ति । कश्मीरवासिविद्वांसः कश्मीरोद्भवं तं मन्यन्ते, वङ्गवासिनश्च वङ्गदेशीयम् अस्ति तावदन्योऽपि समीक्षकवर्गः यस्य मतेन कालिदासः उज्जयिन्यां लब्धजन्मासीत् । उज्जयिनीं प्रति कवेः सातिशयोऽनुराग एतन्मतं पुष्णाति

देशकालवदेव कालिदासकुलस्यापि स्पष्टः परिचयो नोपलभ्यते । तस्य कृतिषु वर्णाश्रमधर्मव्यवस्थायाः यथातथ्येन प्रतिपादनेन एतदनुमीयते यत् तस्य जन्म विप्रकुलेऽभवत् । भावनया स शिवानुरक्तश्चासीत् तथापि तस्य धर्मभावनायां मनागपि सङ्कीर्णता नासीत् । शिवभक्तोऽपि तत् रघुवंशे स रामं प्रति स्वभक्तिभावमुदारमनसा प्रकटयति । कालिदासस्य जीवनवृत्तं सर्वथा अज्ञानान्धकाराच्छन्नमस्ति । तद्विषयिका: अनेकाः जनश्रुतय: लब्धप्रसरस्सन्ति किन्तु ताः सर्वाः ईर्ष्याकलुषकषायितचित्तानां कल्पनाप्ररोहा एव, अतएव सर्वथा चिन्त्याः सन्ति।

कालिदासस्य नवनवोन्मेषशालिन्या: प्रज्ञायाः उन्मीलनम् तस्य कृतिषु नास्तीति कस्यचित्सुधियः परोक्षम् ।

संस्कृतकाव्यस्य विविधेषु प्रमुखप्रकारेषु स्वकौशलं प्रदर्श्य स सर्वानतीतानागतान् कवीनतिशिश्ये। रघुवंशं

कुमारसम्भवञ्च तस्य महाकाव्यद्वयम् मेघदूतम् ऋतुसंहारश्च खण्डकाव्ये, मालविकाग्निमित्रं विक्रमोर्वशीयम् अभिज्ञानशाकुन्तलञ्च नाटकानि सन्ति। तत्र रघुवंशं नाम महाकाव्यं कविकुलगुरोः सर्वातिशायिनी कृतिरस्ति । अस्मिन् महाकाव्ये दिलीपादारभ्य अग्निवर्णपर्यन्तम् इक्ष्वाकुवंशावतंसभूतानां नृपतीनामवदाननिरूपणमस्ति। एकोनविंशसर्गात्मकमिदं महाकाव्यं रमणीयार्थप्रतिपादकं सत् सचेतसां हृदयं सततमाह्लादयति । कुमारसम्भवे स्वामिकार्तिकेयस्य जन्मोपवर्णितम् इदमपि काव्यम् अष्टादशसर्गात्मकमस्ति । केचन समीक्षका अष्टमसर्गपर्यन्तमेव काव्यमिदं कालिदासप्रणीतमिति मन्यन्ते मेघदूते यक्षयक्षिण्योः वियोगमाश्रित्य विप्रलम्भशृङ्गारस्य पूर्णपरिपाको दृश्यते । ऋतुसंहारे अन्वर्थतया षण्णामृतूनां वर्णनमस्ति । मालविकाग्निमित्रनाटके अग्निमित्रस्य मालविकायाश्च प्रेमाख्यानमस्ति । पञ्चाङ्कात्मके विक्रमोर्वशीये पुरुरवसः उर्वश्याश्च प्रेमकथा वर्णिता । अभिज्ञानशाकुन्तलं स्वनामधन्यस्य अस्य कवेः सर्वश्रेष्ठा नाट्यकृतिरस्ति । नाटकेऽस्मिन् सप्ताङ्काः सन्ति । मेनकया प्रसूतोज्झितायाः शकुन्तैश्च पोषिताया: तदनु कण्वेन परिपालितायाः शकुन्तलायाः दुष्यन्तेन सहोद्वाहस्य कथा वर्णितास्ति । शाकुन्तलविषये प्रथितैषा भणिति:

‘काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला’

एतन्नाटकं प्राच्यपौरस्त्यैः समीक्षकैः बहु प्रशंसितम्। • वस्तुतः कालिदासः मूर्धन्यतमः भारतीयः कविरस्ति । एकतस्तस्य कृतिषु काव्योचितगुणानां समाहारः दृश्यते अपरतश्च भारतीयजीवनपद्धतेः सर्वाङ्गीणता तत्र राराजते। काव्योत्कर्षदृष्ट्या तस्य काव्येषु मानवमनसः सूक्ष्मानुभूतीनामिन्द्रधनुः कस्यापि सहृदयस्य चित्तमावर्जयितुं पारयति । प्रकृतिरपि स्वजडत्वं विहाय सर्वत्र मानवसहचरीवाचरति । रघुवंशे दिग्विजयार्थं प्रस्थितस्य रघोः सभाजनं वनवृक्षाः प्रसूनवृष्टिभिः सम्पादयन्ति । मेघे विरहोत्कण्ठितस्य यक्षस्य प्रेमविहलतायाः अद्वितीया सृष्टिः परिलक्ष्यते। तत्र बाह्यान्तः प्रकृत्योः मर्मस्पृग्वर्णनमस्ति । कविदृष्ट्या मेघः धूमज्योतिस्सलिलमरुतां सन्निपातो न भूत्वा एक: संवेदनशील मानवोपमः प्राणी अस्ति। स रामगिरेः आरभ्यालकां यावत् यस्य कस्यापि सन्निधिं लभते तस्मै हर्षोल्लासौ वितरति । शाकुन्तलनाटके पतिगृहगमनकाले आश्रमपादपाः स्वभगिन्यै शकुन्तलायै आभरणानि समर्पयन्ति। हरिणार्भकः तस्याः मार्गावरोधं कृत्वा स्वकीयं निश्छलं प्रेम प्रकटयति । एवमेव नद्यः प्रेयस्य इवाचरन्ति । सूर्यः अरुणोदयवेलायां स्वप्रियतमायाः नलिन्याः तुषारबिन्दुरूपाणि अश्रूणि स्वकरैः परिमृजति

कालिदासकाव्येषु अङ्गीरसः शृङ्गारोऽस्ति । तस्य पुष्ट्यर्थं करुणादयोऽन्ये रसाः अङ्गभूताः । रसानुरूपं क्वचित् प्रसादः क्वचिच्च माधुर्य तस्य काव्योत्कर्षे साहाय्यं कुरुतः। वैदर्भीरीतिः कालिदासस्य वाग्वश्येव सर्वत्रानुवर्तते। अलङ्कारयोजनायां कालिदासोऽद्वितीयः । यद्यपि उपमाकालिदासस्येत्युक्तिः उपमायोजनायामेव कालिदासस्य वैशिष्ट्यमाख्याति तथापि उत्प्रेक्षार्थान्तरन्यासादीनामलङ्काराणां विनियोगः तेनातीव सहजतया कालिदासस्य नाट्यकृतिषु विशेषतः शाकुन्तले वस्तुविन्यासः अनपुमः चरित्रचित्रणं सर्वथानवद्यं संवादशैली सम्प्रेषणीयास्ति । सममेव भारतीयसंस्कृत्यनुमतानां धर्मार्थकाममोक्षमूलानां मानवमूल्यानां प्रकाशनं कालिदासस्य वैशिष्ट्यमस्ति । आश्रमवासिनीं शकुन्तलां निर्वर्ण्य मनसि कामप्ररोहमनुभूय दुष्यन्तः तावच्छान्तिं न लभते यावत्तां क्षत्रियपरिग्रहक्षमां विश्वामित्रस्य दुहितेयमिति नावैति । कण्वस्यानुज्ञां बिना गन्धर्वविधिना कृतः विवाहः उभावपि तावत्प्रताडयति यावदेकतः शकुन्तला मारीचाश्रमे तपश्चरणेन अवज्ञाजनितं कलुषं न क्षालयति अपरतः ।।

दुष्यन्तः अङ्गुलीयलाभेन लब्धस्मृतिः सत् भृशं पीड्यमानः प्रायश्चित्ताग्नौ आत्मशुद्धिं न कुरुते । तदनन्तरमेव तयोः दाम्पत्यप्रेम निष्कलुषं भवति पुत्रोपलब्धौ च परिणमते ।

रघुवंशे कालिदासः रघुवंशिनां चित्रणं तथा करोति यथा भारतीयजनजीवनस्योदात्तादर्शानां सम्यग् दिग्दर्शनं भवेत् । रघुकुलजा: राजानः प्रजाक्षेमाय बलिमाहरन् । मितसंयतभाषिणस्ते सदा सत्यनिष्ठाः आसन्। यशस्कामास्ते तदर्थ प्राणानपि त्यक्तुं सदैवोद्यता अभवन् । केवलं सन्तत्यर्थे ते गृहमेधिनो बभूवुः। शैशवे विद्यार्जनं यौवने रञ्जनं वार्धक्ये मुक्त्यर्थं मुनिवदाचरणं तेषां व्रतमासीत् । बालवृद्धवनितादीनां यदाचारणं कालिदासकाव्ये निरूपितं तत्सर्वथा भारतीयसंस्कृतिगौरवानुरूपमेव ।

आहिभवत: सिन्धुवेलां यावत् विकीर्णाः भारतगौरवगाथा: कालिदासेन स्वकृतिषूपनिबद्धाः । रघुवंशे मेघे, कुमारसम्भवे च भारतदेशस्य विविधभूभागानां गिरिकाननादीनां यादृक् स्वाभाविकं मनोहारि च चित्रणं लभ्यते, स्वचक्षुषाऽनवलोक्य तदसम्भवमस्ति । तथाविधं तस्य देशप्रेम तस्य काव्योत्कर्षं समुद्रढयति । सन्तु तत्रानल्पा संस्कृतकवयः किन्तु कस्यापि कालिदासेन साम्यं नास्ति । साधूक्तं केनचित् कालिदासानुरागिणा

पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः ।

अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top