UP BOARD CLASS 10 SANSKRIT CHAPTER 3 NAITIK MOOLYANI नैतिकमूल्यानि

UP BOARD CLASS 10 SANSKRIT CHAPTER 3 NAITIK MOOLYANI नैतिकमूल्यानि

नयनं नीतिः, नीतेरिमानि मूल्यानि नैतिकमूल्यानि । यया सरण्या कार्यकरणेन मनुष्यस्य जीवनं सुचारु सफलञ्च भवति सा नीतिः कथ्यते इयं नीतिः केवलस्य जनस्य समाजस्य कृते एव न भवति, अपितु जनानां, नृपाणां समेषां च व्यवहाराय भवति । नीत्या चलनेन, व्यवहरणेन, प्रजानां शासकानां समस्तस्य लोकस्यापि कल्याणं भवति। पुरातनकालादेव भारते कवयः नीतिकाराः मनोरमया सरसया गिरा नीतिवाक्यानि, कथाभिः श्लोकैश्च व्यरचयन् । इत्थं नीतिशास्त्राणि व्यवहारविदे, कान्तासम्मिततयोपदेशयुजे बभूवुः । फलन्त्विदं सम्पन्नं साधारणाः अपि जनाः व्यवहाराय नीतिवाक्यानि नीतिश्लोकांश्च गलविलाधः कुर्वन्ति स्म । यथा च चाणक्यनीतिः, विदुरनीतिः विदुलोपाख्यानम् पञ्चतन्त्रम्, शुक्रनीति: घटकर्परकृतः नीतिसार:, सुन्दरपाण्डेयेन कृता ‘नीतिद्विषष्टिका’ भल्लाटशतकम्, भर्तृहरिकृतम् नीतिशतकम्, ‘बल्लालशतकम्‘, ‘दृष्टान्तशतकम्’ इत्यादि बहूनि नीतिपुस्तकानि संस्कृते उपलभ्यन्ते ।

विचार्यमाणे साहित्ये आदिकालादेव सर्वेष्वपि राष्ट्रेषु अयं विश्वासः प्रचलितः आसीत्, यत् काव्यस्यान्येषु प्रयोजनेषु सत्स्वपि एकं मुख्यं प्रयोजनं नैतिकः परितोष: । प्लेटो, अरस्तू, पेटर, होरेसादि सर्वैः विचारकैः काव्यस्य मुख्यं प्रयोजनं नैतिकविकासः एव स्वीकृतः।

नैतिकमूल्यैः व्यक्तेः सामाजिकी प्रतिष्ठाभिवर्धते । मानवकल्याणाय नैतिकता आवश्यकी। नैतिकतैव व्यक्तेः समाजस्य, राष्ट्रस्य, विश्वस्य कल्याणं कुरुते । नैतिकताचरणेनैव मनुष्येषु त्यागः तपः, विनयः, सत्यं, न्यायप्रियता एवमन्येऽपि मानवीया: गुणा: उत्पद्यन्ते । नैतिकतया मनुष्योऽन्यप्राणिभ्यः भिन्नः जायते । तदाचरणेन व्यक्तेः समाजस्य च जीवनम् अनुशासितं निष्कण्टकं च भवति । व्यक्तेः समाजस्य, वर्गस्य, देशस्य च समुन्नयनावसरो लभ्यते। समाजः ईर्ष्या-द्वेषच्छल कलहादिदोषेभ्यः मुक्तो भवति अस्माकं सामाजिका: अन्ताराष्ट्रियाः सम्बन्धाः नैतिकताचरणेन दृढाः भवन्ति । अतः नैतिकताशब्दः सच्चरित्रतावाचकः सुखमयमानवजीवनस्याधारः अस्ति।

इदन्तु सम्यक् वक्तुं शक्यते यत् नैतिकताचरणस्य, नैतिकतायाश्च मुख्यमुद्देश्यं स्वस्य अन्यस्य च कल्याणकरणं भवति। कदाचित् एवमपि दृश्यते यत् परेषां कल्याणं कुर्वन् मनुष्यः स्वीयाम् हानिमपि कुरुते। एवंविधं नैतिकाचरणं विशिष्टं महत्त्वपूर्ण च मन्यते परेषां हितं नैतिकतायाः प्राणभूतं तत्त्वम्।

कदाचित् एवमपि दृश्यते यत्समाजे प्रचलिता रूढिः समेषां कृते हितकरी न भवति । अतः प्रबुद्धाः विद्वांसः तस्या रूढे: विरोधमपि कुर्वन्ति परं तैः आचरणस्य व्यवहारे नवीन आदर्श: स्थाप्यते । यः कालान्तरे समाजस्य कृते हितकरः भवति । एवं सदाचरणेऽपि परिवर्तनं दृश्यते । परं वस्तुतः यानि नैतिकमूल्यानि सन्ति। तेषु परिवर्तनं न भवति । यथा सनातनो धर्मः न परिवर्तते तथा नैतिकमूल्यान्यपि स्थिराणि एव । एवं धर्मे नीतौ च दृढीयान् सम्बन्धो दृश्यते परं द्वयोः भेदोऽपि वर्तते । धर्मशब्द: व्यापकः अस्ति । नीतिस्तु व्याप्या धर्मे एवं विलीयते । यानि अवश्यकरणीयानि कर्त्तव्यानि यैः पुण्यानि नोपलभ्यन्ते तेषामपि गणना धर्मे कृता महर्षिभिः धर्माचार्यैः । नीतिः लौकिकं कल्याणं कुरुते । धर्मस्तु लौकिकं पारलौकिकञ्च कल्याणं कुरुते । उभयोः कुत्रापि साङ्कर्यमपि प्राप्यते । धर्मः अलौकिकी शक्तिं प्रकटयति। सः मुक्तेः मार्गमपि प्रशस्तं करोति । परलोकमपि प्रदर्शयति कल्पयति च । नीति: लौकिकं हितं साधयति । परं नीतिधर्मयोः साहचर्यं सर्वैरव स्वीक्रियते।

दार्शनिकैः, धर्माचार्यै: पौराणिकैश्च धर्म: परिभाषितः यथा – “यतोऽभ्युदयनिः श्रेयस्सिद्धिः स धर्मः” यतः यस्मात् कर्मणः इह लोके कल्याणं जायते, परत्र परलोके च शोभनं स्थानं जनैः लभ्यते नरकापातो न भवेत् येन स धर्मः । एवं महाभारते – ध्रियते धर्मः धारणाद्धर्मः यतः धारयते प्रजाः । धर्मशास्त्रकारेण मनुना

धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्यासत्यमक्रोधो दशकं धर्मलक्षणम् ।।

मनुस्मृतौ दशस्वरूपको धर्मः उपवर्णितः । इत्थं धर्माचरणे नैतिकताचरणे च साङ्कर्यमुपलभ्यते । • तीर्थाटनम् पावनासु नदीषु स्नानम्, यजनम्, याजनम् गुरुसेवा, मातृ-पितृसेवा, सन्ध्यावन्दनम्, षोडशसंस्कारा एते मुख्यरूपेण धर्मपदवाच्याः। एषु कर्मसु नीतेः मिश्रणं नास्ति । अतः धर्मो व्यापकः । धृति दया सहिष्णुता – सत्य- परोपकाराद्याचरणेषु द्वयोः साङ्कर्यमस्ति । परमेतत् निश्चितं यत् द्वयोराचरणेन लोकस्य परमं कल्याणं जायते एव । नीतिकाराणां मते इमे नैतिकतायाः गुणा: यथा – जीवहिंसायाः विरक्तिः, परधनापहरणान्निवृत्तिः, सत्यभाषणम्, पैशुन्यात् निवृत्तिः सत्पात्रेभ्यः दीनेभ्यश्च दानम्, अतिलोभात् वितृष्णा, दया, सहिष्णुता, परोपकारः, गुरुजनेष्वनुरागः, श्रद्धा, विनयशीलता च अनुत्सेक, आतिथ्यम् न्याय्यावृत्तिः, परगुणेभ्यः ईर्ष्याऽभावः, सत्सङ्गानुरक्तिः, दुष्टसङ्गानिवृत्तिः, विपदि धैर्यम्, अभ्युदये क्षमा, सदसि वाक्पटुता, समयस्य सदुपयोगः, इत्यादयः नैतिकताचाराः एषामाचरणेनैव व्यक्तेः समाजस्य, राष्ट्रस्य विश्वस्य च सर्वथा कल्याणं सम्पद्यते ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top