vidhya Essay In Sanskrit विद्या महत्‍वम् निबंध

This image has an empty alt attribute; its file name is UP-Board-Results-2022-Updates-1.png

vidhya Essay In Sanskrit विद्या महत्‍वम् निबंध

vidhya Essay In Sanskrit: इस पोस्ट मे यहाँ पर हम संस्‍कृत भाषाया: महत्‍वम् निबंध: [ मम प्रिय भाषा संस्‍कृत निबंध ] आप सभी के साथ शेयर कर रहे है जो इस प्रकार है।

विद्या संस्कृत निबंधम्

ज्ञानार्थकाद् ‘विद्’ धातोः ‘क्यप्’ कृत्वा स्त्रीप्रत्ययः ‘टाप्’ इति संयुज्य विद्या शब्दो निष्पद्यते। मानवजीवने विद्याया अतिमहत्त्वं वर्तते विद्ययैव जनः संसारेऽस्मिन् सर्वान् सुखान् लभते, न केवलं मृत्युलोके परलोकेऽपि सः विद्यया वै सुख सम्पन्न भवति । सम्भवतः अनेनैव शास्त्रेषु कथितम्

‘विद्ययाऽमृतमश्नुते’, ‘विद्यया विन्दतेऽमृतम्’

विद्याया अभावे मनुष्यः पशुवत् भवति । विद्या मानवस्य प्रच्छन्नं धनमस्ति! विद्ययैव जनाः संसारेऽस्मिन् यश-सुख भोगिनः भवन्ति। यदि मनुष्यः विदेशं गच्छेत्, तर्हि विद्या एव तस्य सर्वाधिकं श्रेष्ठं मित्रं भवति । अनेनैव महाकविना भर्तृहरिणा कथितम् –

विद्या नाम नरस्य रूपमधिकं प्रच्छन्न गुप्तं धनं,
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः ।

विद्या बन्धुजनो विदेशगमने विद्या परादेवता,
विद्या राजसु पूजिता न हि धनं विद्याविहीनः पशुः ।।

अस्मिन् संसारे विद्यातीवाद्भुतं धनमस्ति, कुतः अन्यानि धनानि व्ययकृते सति विनष्टानि भवन्ति, किन्तु एतत् विद्या नामकं धनं तु व्ययकृतेऽपि वर्धते, सञ्चयात्तु विनष्टं भवति। उक्तञ्च

अपूर्तः कोऽपि कोशोऽयं विद्यते तव भारति ।
व्ययतो वृद्धिमायाति, क्षयमायाति सञ्चयात् ।।

अस्य विद्यानामकस्य धनस्यैका अन्या विशेषता वर्तते, चौरः एनं चोरयितुं न शक्यः, नैव धनमेनं राजा अपि ग्रहीतुं शक्यते, भ्रातृभिः नैव विभज्यते धनमतेत्, भारः खलु न भवति अस्मिन्, अनेनैव धनमेतत् अन्येषु धनेषु मुख्यतां भजते

न चौर्यहार्यं न च राज्यहार्यं,
न भ्रातृभाज्यं न च भारकारि
व्ययेकृते वर्धत एव नित्यं
विद्या धनं सर्वधनं प्रधानम्।।

विद्वान् विपत्सु पतितोऽपि सरलतापूर्वकं निस्सरति किन्तु मूर्खस्तु विनाशमेव लभते! न केवलं इयदेव विद्यावान् तु स्वदेशं राष्ट्रमपि रक्षति, किन्तु मूर्खः एकल एव स्व मूर्खतावशात् सम्पूर्णं वै देशं विनश्यति।

विद्यामधिकृत्य वै विश्वेऽनेके देशाः स्व प्रभावं स्थापितं कुर्वन्ति तेषां वर्चस्वं सर्वत्र प्रसरति । वस्तुतः विद्या मनुष्यस्य मातेव रक्षति, पितेव हितकारिषु विषयेषु नियुज्यते, विषादं दूरीकृत्य कल्पलतेव सुखीकरोति। अतएव कथितम् .

मातेव रक्षति पितेव हिते नियुङ्क्ते,
कान्तेव चाभिरमयत्यपनीय खेदम् ।
लक्ष्मीं तनोति वितनोति च दिक्षु कीर्ति,
किं किं न साधयति कल्पलतेव विद्या |

विद्ययाजनः विनम्रः भवति, तस्मिन् शिष्टतायाः सञ्चारो भवति यशश्चतुर्दिक्षु प्रसरति, न केवलमेतत् कविभिस्तु विद्यां नृपत्वादपि श्रेयस्करी कथितम्

विद्वत्त्वं च नृपत्वञ्च, नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥

मानवजीवने चतुर्षु आश्रमेषु प्रथमो ‘ब्रह्मचर्य’ नाम आश्रमः, अस्मिन् एव सः गुरुसमीपं गत्वा विद्यार्जनं कुरुते। विद्यार्थी जीवने स अथकपरिश्रमं करोति। तदानीमेव सः विद्यां लभते । तदैव कथ्यते –

सुखार्थिनः कुतो विद्या, विद्यार्थिनः कुतो सुखम् ।
सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा त्यजेद् सुखम् ।

वस्तुतः भूमण्डलेऽस्मिन् यदपि सत्यं शिवं सुन्दरञ्चास्ति। सर्वमेतत् विद्यया एव विद्याविहीनः जनः विद्वत्समाजे तथैव न शोभते यथा हंसमध्ये बको न शोभते । वस्तुतः मनुष्यस्य शरीरस्य विद्या सर्वोत्कृष्टमाभूषणमस्ति विद्यासमं नास्ति शरीरस्य भूषणम्।

अतः अस्माभिः सदैव विद्यायाः प्राप्त्यर्थं प्रयत्नो विधेयः।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top